|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.29. अध्यायः 029
Mahabharata - Drona Parva - Chapter Topics
अर्जुनेन सगजस्य भगदत्तस्य वधः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-29-0x(4324)(45998)
तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः।
प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम्॥ 7-29-1(45999)
सञ्जय उवाच। 7-29-2x(4325)
प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ।
मृत्युदंष्ट्रान्तिकं प्राप्तौ सर्वभूतानि मेनिरे॥ 7-29-2(46000)
तथा तु शरवर्षाणि पातयत्यनिशं प्रभो।
गजस्कन्धान्महाराज कृष्णयोः स्यन्दनस्थयोः॥ 7-29-3(46001)
अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः।
अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः॥ 7-29-4(46002)
अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः।
निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः सुवाससः॥ 7-29-5(46003)
तस्य पार्थो धनुश्छित्त्वा परिवारं निहत्य च।
लालयन्निव राजानं भगदत्तमयोधयत्॥ 7-29-6(46004)
सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश।
अप्रेषयत्सव्यसाची द्विधैकैकमथाच्छिनत्॥ 7-29-7(46005)
ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः।
शरजालेन महता तद्व्यशीर्यत भूतले॥ 7-29-8(46006)
शीर्णवर्मा स तु गजः शरैः सुभृशमर्दितः।
बभौ धारानिपाताक्तो व्यभ्रः पर्वतराडिव॥ 7-29-9(46007)
ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम्।
व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत्॥ 7-29-10(46008)
ततश्छत्रं ध्वजं चैव च्छित्त्वा राज्ञोऽर्जुनः शरैः।
विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वतेश्वरम्॥ 7-29-11(46009)
सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः।
भगदत्तस्ततः क्रुद्धः पाण्डवस्य जनाधिपः॥ 7-29-12(46010)
व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्नाद च।
तैरर्जुनस्य समरे किरीटं परिवर्तितम्॥ 7-29-13(46011)
परिवृत्तं किरीटं तद्यमयन्नेव पाण्डवः।
सुदृष्टः क्रियतां लोक इति राजानमब्रवीत्॥ 7-29-14(46012)
एवमुक्तस्तु सङ्क्रुद्धः शरवर्षेण पाण्डवम्।
अभ्यवर्षत्स गोविन्दं धनुरादाय भास्वरम्॥ 7-29-15(46013)
तस्य पार्थो धनुश्छित्त्वा तूणीरान्सन्निकृत्य च।
त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत्॥ 7-29-16(46014)
विद्धस्ततोऽतिव्यथितो वैष्णवास्त्रमुदीरयन्।
अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि॥ 7-29-17(46015)
विसृष्टं भगदत्तेन तदस्त्रं सर्वघाति वै।
उरसा प्रतिजग्राह पार्थं सञ्छाद्य केशवः॥ 7-29-18(46016)
वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि।
पद्मकोशविचित्रा सा सर्वर्तुकुसुमोत्करा॥ 7-29-19(46017)
ज्वलनार्केन्दुवर्णाभा पावकोज्ज्वलपल्लवा।
तया पद्मपलाशिन्या वातकम्पितपत्रया॥ 7-29-20(46018)
शुशुभेऽभ्यधिकं शौरिरतसीपुष्पसन्निभः।
ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत॥ 7-29-21(46019)
अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन।
इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि॥ 7-29-22(46020)
यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे।
ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते॥ 7-29-23(46021)
सबाणः सधनुश्चाहं ससुहासुरमानुषान्।
शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव॥ 7-29-24(46022)
ततोऽर्जुनं वासुदेवः प्रत्युवाचार्यवद्वचः।
शृणु गुह्यमिदं पार्थ पुरावृत्तं यथाऽनघ॥ 7-29-25(46023)
`येयं भूतधरा देवी सर्वभूतधरा धरा।
सकामा लोककर्तारं नारायणमुपस्थिता॥ 7-29-26(46024)
स सङ्गत्य तया सार्धं प्रीतस्तस्या वरं ददौ।
सा वव्रे विष्णुसदृशं पुत्रमस्त्रं च वैष्णवम्॥ 7-29-27(46025)
बभूव च सुतस्तस्या नरको नाम विश्रुतः।
अस्त्रं च वैष्णवं तस्मै ददौ नारायणः स्वयम्॥ 7-29-28(46026)
तदेवं नरकस्यासीदस्त्रं सर्वाहितान्तकम्।
तस्मात्प्राग्ज्योतिषं प्राप्तं सर्वशस्त्रविघातनम्॥ 7-29-29(46027)
नास्यावध्योऽस्ति लोकेऽस्मिन्मदन्यः कश्चिदर्जुन।
तस्मान्मया कृतं ह्येतन्मा भूत्ते बुद्धिरन्यथा॥ 7-29-30(46028)
सञ्जय उवाच। 7-29-31x(4326)
अनुनीय तु दाशार्हः पाण्डवं त्वरितोऽब्रवीत्।
जहि प्राग्ज्योतिषं क्षिप्रं वाक्यशेषं च मे शृणु'॥ 7-29-31(46029)
चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः।
आत्मानं प्रविभज्येह लोकानां हितमादधे॥ 7-29-32(46030)
एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता।
अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी॥ 7-29-33(46031)
अपरा कुरुते कर्म मानुषं लोकमाश्रिता।
शेते चतुर्थीं त्वपरा निद्रां वर्षसहस्रिकीम्॥ 7-29-34(46032)
याऽसौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम।
वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा॥ 7-29-35(46033)
तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा।
अयाचत वरं यन्मां नरकार्थाय तच्छृणु॥ 7-29-36(46034)
देवानां दानवानां च अवध्यस्तनयोऽस्तु मे।
उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि॥ 7-29-37(46035)
एवं वरमहं श्रुत्वा जगत्यास्तनये तदा।
अमोघमस्त्रं प्रायच्छं वैष्णवं परमं पुरा॥ 7-29-38(46036)
अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे।
नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति॥ 7-29-39(46037)
अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः।
भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा॥ 7-29-40(46038)
तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी।
स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः॥ 7-29-41(46039)
तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम्।
नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष॥ 7-29-42(46040)
तन्मया त्वत्कृते चैतदन्यथैवोपनिर्मितम्।
वियुक्तं परमास्त्रेण जहि पार्थ महासुरम्॥ 7-29-43(46041)
`अवध्योऽयं महास्त्रेण भगदत्तः सुरासुरैः'।
वैरिणं जहि दुर्धर्षं भगदत्तं सुरद्विषम्।
यथाऽहं जघ्निवान्पूर्वं हितार्थं नरकं तथा॥ 7-29-44(46042)
सञ्जय उवाच। 7-29-45x(4327)
एवमुक्तस्तदा पार्थः केशवेन महात्मना।
भगदत्तं शितैर्बाणैः सहसा समवाकिरत्॥ 7-29-45(46043)
ततः पार्थो महाबाहुरसम्भ्रान्तो महामनाः।
कुम्भयोरन्तरे नागं नाराचेन समार्पयत्॥ 7-29-46(46044)
स समासाद्य तं नागं बाणो वज्र इवाचलम्।
अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः॥ 7-29-47(46045)
स करी भगदत्तेन प्रेर्यमाणो मुहुर्मुहुः।
न करोति वचस्तस्य दरिद्रस्येव योषिता॥ 7-29-48(46046)
स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ।
नदन्नार्तस्वनं प्राणानुत्ससर्ज महाद्विपः॥ 7-29-49(46047)
ततो गाण्डीवधन्वानमभ्यभाषत केशवः।
अयं महत्तरः पार्थ पलितेन समावृतः॥ 7-29-50(46048)
वलीसञ्छन्ननयनः शूरः परमद्रुर्जयः।
अक्ष्णोरुन्मीलनार्थाय बद्धपट्टो ह्यसौ नृपः॥ 7-29-51(46049)
देववाक्यात्प्रचिच्छेद शरेण भृशमर्जुनः।
छिन्नमात्रेंऽशुके तस्मिन्रुद्धनेत्रो बभूव सः॥ 7-29-52(46050)
तमोमयं जगन्मेने भगदत्तः प्रतापवान्।
ततश्चन्द्रार्धबिम्बेन बाणेन नतपर्वणा॥ 7-29-53(46051)
बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः।
स भिन्नहृदयो राजा भगदत्तः किरीटिना॥ 7-29-54(46052)
शरासनं शरांश्चैव गतासुः प्रमुमोच ह।
शिरसस्तस्य विभ्रष्टं पपात च वरांशुकम्।
नालताडनविभ्रष्टं पलाशं नलिनादिव॥ 7-29-55(46053)
स हेममाली तपनीयभाण्डा
त्पपात नागाद्गिरिसन्निकाशात्।
सुपुष्पितो मारुतवेगभग्नो
महीधराग्रादिव कर्णिकारः॥ 7-29-56(46054)
निहत्य तं नरपतिमिन्द्रविक्रमं
सस्वायमिन्द्रस्य तदैन्द्रिराहवे।
ततोऽपरांस्तव जयकाङ्क्षिणो नरान्
बभञ्ज वायुर्बलवान्द्रुमानिव॥ ॥ 7-29-57(46055)
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे एकोनत्रिंशोऽध्यायः॥ 29 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-29-33 एका मूर्तिर्बदरिकाश्रमे नारायणरूपा। अषरा परमात्मरूपा ॥ 5-29-34 अपरा रामकृष्णादिरूपा। अपरा जलशायिनी॥ 5-29-48 योषिता भागुरिमते टाप्॥ 5-29-29 एकोनत्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|